Wednesday, June 26, 2019

श्री संकटनाशन गणेश स्तोत्रम्

श्री संकटनाशन गणेश स्तोत्रम्

॥  श्रीगणेशाय नम: ॥


  नारद उवाच 

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । 
भक्तावासं स्मरेन्नित्यमायु:कामार्थसिद्धये ॥ १ ॥॥


प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । 
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च । 
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥३॥

नवमं भालचन्द्रं च दशमं तु विनायकम् । 
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥

द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: । 
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । 
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥६

जपेत् गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् । 
संवत्सरेण सिद्धिं च लभते नात्र संशय:

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत्  
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत:

इति श्री नारदपुराणे संकटनाशन श्रीमहागणपति स्तोत्रम् संपूर्णम् ।


गजाननं भूतगणादि सेवितं, कपित्थ जम्बूफलचारु भक्षितम् ।
उमासुतं शोक विनाशकारणं, नमामि विघ्नेश्वर पादपङ्कजम् ॥

No comments:

Post a Comment